|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.39. अध्यायः 039
Mahabharata - Vana Parva - Chapter Topics
किरातरूपिणआ हरेणार्जुनस्य पराजयः ॥ 1 ॥ तथा पार्थपूजास्तुतिसंतुष्टेन तेन तदाश्वासनम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-39-0x(1871)(17258)
गतेषु तेषु सर्वेषु तपस्विषु महात्मसु।
पिनाकपाणिर्भगवान्सर्वपापहरो हरः ॥ 3-39-1(17259)
कैरातं वेषमास्थाय काञ्चनद्रुमसन्निभम्।
विभ्राजमानो वपुषा गिरिर्मेरुरिवापरः ॥ 3-39-2(17260)
श्रीगद्धनुरुपादाय शरांश्चाशीविषोपमान्।
निष्पपात महार्चिष्मान्दहन्कक्षमिवानलः ॥ 3-39-3(17261)
देव्या सहोमया श्रीमान्समानव्रतवेषया।
नानावेषधरैर्हृष्टैर्भूतैरनुगतस्तदा ॥ 3-39-4(17262)
किरातवेषसंछन्नः स्त्रीभिश्चापि सहस्रशः।
अशोभत तदा राजन्स देशोऽतीव भारत ॥ 3-39-5(17263)
क्षणेन तद्वनं सर्वं निःशब्दमभवत्तदा।
नादः प्रस्रवणानां च पक्षिणां चाप्युपारमत् ॥ 3-39-6(17264)
स सन्निकर्षमागम्य पार्थस्याक्लिष्टकर्मणः।
मूकं नाम दितेः पुत्रं ददर्शाद्भुतदर्शनम् ॥ 3-39-7(17265)
वाराहं रूपमास्थाय तर्जयन्तमिवार्जुनम्।
हन्तुं परमदुष्टात्मा तमुवाचाथ फल्गुनः ॥ 3-39-8(17266)
गाण्डीवं धनुरादाय शरांश्चाशीविषोपमान्।
सज्यं धनुर्वरं कृत्वा ज्याघोषेण निनादयन् ॥ 3-39-9(17267)
यन्मां प्रार्थयसे हन्तुमनागसमिहागतम्।
तस्मात्त्वां पूर्वमेवाहं नेष्यामि यमसादनम् ॥ 3-39-10(17268)
दृष्ट्वा तं प्रहरिष्यन्तं फल्गुनं दृढधन्विनम्।
किरातरूपी सहसा वारयामास शंकरः ॥ 3-39-11(17269)
मयैष प्रार्थितः पूर्वं नीलमेघसमप्रभः।
अनादृत्यैव तद्वाक्यं प्रजहाराथ फल्गुनः ॥ 3-39-12(17270)
किरातश्च समं तस्मिन्नेकलक्ष्ये महाद्युतिः।
प्रमुमोचाशनिप्रख्यं शरमग्निशिखोपमम् ॥ 3-39-13(17271)
तौ मुक्तौ सायकौ ताभ्यां समं तत्र निपेततुः।
मूकस्य गात्रे विस्तीर्णे शैलपृष्ठनिभे तदा ॥ 3-39-14(17272)
यथाऽशनैर्विनिष्पेषो वज्रस्येव च पर्वते।
तथा तयोः सन्निपातः शरयोरभवत्तदा ॥ 3-39-15(17273)
स विद्धो बहुभिर्बाणैर्दीप्तास्यैः पन्नगैरिव।
ममार राक्षसं रूपं भूयः कृत्वा सुदारुणम् ॥ 3-39-16(17274)
स ददर्श ततो जिष्णुः पुरुषं काञ्चनप्रभम्।
किरातवेषसंछन्नं स्त्रीसहायममित्रहा ॥ 3-39-17(17275)
तमब्रवीत्प्रीतमना कौन्तेयः प्रहसन्निव।
को भवानटते शून्ये वने रस्त्रीगणसंवृतः ॥ 3-39-18(17276)
न त्वमस्मिन्वने घोरे बिभेषि कनकप्रभ।
किमर्थं च त्वया विद्धो मृगोऽयं मत्परिग्रहः ॥ 3-39-19(17277)
मयाऽभिपन्नः पूर्वं हि राक्षसोऽयमिहागतः।
कामात्परिभवाद्वाऽपि न मे जीवन्विमोक्ष्यसे ॥ 3-39-20(17278)
न ह्येष मृगयाधर्मो यस्त्वयाऽद्य कृतो मयि।
तेन त्वां भ्रंशयिष्यामि जीवितात्पर्वताश्रयम् ॥ 3-39-21(17279)
इत्युक्तः पाण्डवेयेन किरातः प्रहसन्निव।
उवाच श्लक्ष्णया वाचा पाण्डवं सव्यसाचिनं ॥ 3-39-22(17280)
न मत्कृते त्वया वीरः भीः कार्या वनमन्तिकात्।
इयं भूमिः सदाऽस्माकमुचिता वसतां वने ॥ 3-39-23(17281)
त्वया तु दुष्करः कस्मादिह वासः प्ररोचितः।
वयं तु बहुसत्त्वेऽस्मिन्निवसामस्तपोधन ॥ 3-39-24(17282)
भवांस्तु कृष्णवत्मार्भः सुकुमारः सुखोचितः।
कथं शून्यमिमं देशमेकाकी विचरिष्यति ॥ 3-39-25(17283)
अर्जुन उवाच। 3-39-26x(1872)
गाण्डीवमाश्रयं कृत्वा नाराजांश्चाग्निसन्निभान्।
निवसामि महारण्ये द्वितीय इव पावकः ॥ 3-39-26(17284)
एष चापि मया जन्तुर्मृगरूपं समाश्रितः।
राक्षसो निहतो घोरो हन्तुं मामिह चागतः ॥ 3-39-27(17285)
किरात उवाच। 3-39-28x(1873)
मयैष धन्वनिर्मुक्तैस्ताडितः पूर्वमेव हि।
बाणैरभिहतः शेते नीतश्च यमसादनम् ॥ 3-39-28(17286)
ममैवायं लक्ष्यभूतः पूर्वमेव परिग्रहः।
ममैव च प्रहारेण जीविताद्व्यपरिपितः ॥ 3-39-29(17287)
दोषान्स्वान्नार्हसेऽन्यस्मै वक्तुं स्वबलदर्पितः।
अभिषक्तोस्मि मन्दात्मन्न मे जीवन्विमोक्ष्यसे ॥ 3-39-30(17288)
स्थिरो भव विमोक्ष्यामि सायकानशनीनिव।
घटस्व परया शक्त्या मुञ्च त्वमपि सायकान् ॥ 3-39-31(17289)
तस्य तद्वचनं श्रुत्वा किरातस्यार्जुनस्तदा।
रोषमाहारयामास ताडयामास चेषुभिः ॥ 3-39-32(17290)
ततो हृष्टेन मनसा प्रतिजग्राह सायकान्।
भूयोभूय इति प्राह मन्दमन्देत्युवाच ह ॥ 3-39-33(17291)
प्रहरस्व शरानेतान्नाराचान्मर्मभेदिनः।
इत्युक्तो बाणवर्षं स मुमोच सहसाऽर्जुनः ॥ 3-39-34(17292)
ततस्तौ तत्रसंरब्धौ गर्जमानौ मुहुर्मुहुः।
शरैराशीविषाकारैस्ततक्षाते परस्परम् ॥ 3-39-35(17293)
ततोऽर्जुनः शरवर्षं किराते समवासृजत्।
तत्प्रसन्नेन मनसा प्रतिजग्राह शंकरः ॥ 3-39-36(17294)
मुहूर्तं शरवर्षं तु प्रतिगृह्य पिनाकधृक्।
अक्षतेन शरीरेण तस्थौ गिरिवाचलः ॥ 3-39-37(17295)
स दृष्ट्वा बाणवर्षं तु मघीभूतं धनंजयः।
परमं विस्मयं चक्रे साधुसाध्विति चाब्रवीत् ॥ 3-39-38(17296)
अहोऽयं सुकुमाराङ्गो हिमवच्छिखराश्रयः।
गाण्डीवमुक्तान्नाराचान्प्रतिगृह्णात्यविह्वलः ॥ 3-39-39(17297)
कोऽयं देवो भवेत्साक्षाद्रुद्रो यक्षः सुरोऽसुरः।
विद्यते हि गिरिश्रेष्ठे त्रिदशानां समागमः ॥ 3-39-40(17298)
न हि मद्वाणजालानामुत्सृष्टानां सहस्रशः।
शक्तोऽन्यः सहितुं वेगमृते देवं पिनाकिनम् ॥ 3-39-41(17299)
देवो वा यदि वा यक्षो रुद्रादन्यो व्यवस्थितः।
अहमेनं शरैस्तीक्ष्णैर्नयामि यमसादनम् ॥ 3-39-42(17300)
ततो हृष्टमना जिष्णुर्नाराचान्मर्मभेदिनः।
व्यसृजच्छतधा राजन्मयूखानिव भास्करः ॥ 3-39-43(17301)
तान्प्रसन्नेन मनसा भगवाँल्लोकभावनः।
शूलपाणिः प्रत्यगृह्णाच्छिलावर्षमिवाचलः ॥ 3-39-44(17302)
क्षणेन क्षीणबाणोऽथ संवृत्तः फल्गुनस्तदा।
वित्रासं च जगामाथ तं दृष्ट्वा शरसंक्षयम् ॥ 3-39-45(17303)
चिन्तयामास जिष्णुस्तु भगवन्तं हुताशनम्।
पुरस्तादक्षयौ दत्तौ तूणौ येनास्य खाण्डवे ॥ 3-39-46(17304)
किं नु मोक्ष्यामि धनुषा यन्मे बाणाः क्षयं गताः।
अयं च पुरुषः कोपि बाणान्ग्रसति सर्वशः ॥ 3-39-47(17305)
अहमेनं धनुष्कोट्या रशूलाग्रेणेव कुञ्जरम्।
नयामि दण्डधारस्य यमस्य सदनं प्रति ॥ 3-39-48(17306)
प्रगृह्याथ धनुष्कोट्या ज्यापाशेनावकृष्य च।
मुष्टिभिश्चापि हतवान्वज्रकल्पैर्महाद्युतिः ॥ 3-39-49(17307)
संप्रायुध्यद्धनुष्कोट्या कौन्तेयः परवीरहा।
तदप्यस्य धनुर्दिव्यं जग्राह गिरिगोचरः ॥ 3-39-50(17308)
ततोऽर्जुनो ग्रस्तधनुः खङ्गपाणिरतिष्ठत।
युद्धस्यान्तमभीप्सन्वै वेगेनाभिजगाम तम् ॥ 3-39-51(17309)
तस्य मूर्ध्नि शितं खङ्गमसक्तं पर्वतेष्वपि।
मुमोय भुजवीर्येण विक्रम्य कुरुनन्दनः ॥ 3-39-52(17310)
तकस्य मूर्धानमासाद्य पफालासिवरो हि सः।
ततो वृक्षैः शिलाभिश्च योधयामास फल्गुनः ॥ 3-39-53(17311)
तदा वृक्षान्महाकायः प्रत्यगृह्णादथो शिलाः।
किरातरूपी भगवांस्ततः पार्थो महाबलः ॥ 3-39-54(17312)
मुष्टिभिर्वज्रसंस्पर्शैर्धूममुत्पादयन्मुखे।
प्रजहार दुराधर्षे किरातसमरूपिणि ॥ 3-39-55(17313)
ततः शक्राशनिसमैर्मुष्टिभिर्भृशदारुणैः।
किरातरूपी भगवानर्दयामास फल्गुनम् ॥ 3-39-56(17314)
ततश्चटचटाशब्दः सुधोरः समजायत।
पाण्डवस्य च मुष्टीनां किरातस् च युध्यतः ॥ 3-39-57(17315)
सुमुहूर्तं तयोर्युद्धमभवल्लोमहर्षणम्।
भुजप्रहारसंयुक्तं वृत्रवासवयोरिव ॥ 3-39-58(17316)
महाराज ततो जिष्णुः किरातमुरसा बली।
पाण्डवं च विचेष्टन्तं किरातोप्यहनद्बलात् ॥ 3-39-59(17317)
तयोर्भुजविनिष्पेषात्संधर्षेणोरसोस्तथा।
समजायत गात्रेषु पावकोऽङ्गारधूमवान् ॥ 3-39-60(17318)
तत एनं महादेवः पीड्य गात्रैः सुपीडितम्।
तेजसा व्क्रमद्रोषाच्चेतस्तस्य विमोहयन् ॥ 3-39-61(17319)
ततोऽभिपीडितैर्गात्रैः पिण्डीकृत इवाबभौ।
फल्गुनो गात्रसंरुद्धो देवदेवेन भारत ॥ 3-39-62(17320)
निरुच्छ्वासोऽभवच्चैव सन्निरुद्धो महामनाः।
ततः पपात संमूढस्ततः प्रीतोऽभवद्भवः ॥ 3-39-63(17321)
स मुहूर्तं तथा भूत्वा सचेताः पुनरुत्थितः।
रुधिरेणाप्लुताङ्गस्तु पाण्डवो भृशदुःखितः ॥ 3-39-64(17322)
शरण्यं शरणं गत्वा भगवन्तं पिनाकिनम्।
मृन्मयं स्ण्डिलं कृत्वामाल्येनापूजयद्भवम् ॥ 3-39-65(17323)
तच्च माल्यं तदा पार्थः किरातशिरसि स्थितम्।
अपश्यत्पाण्डवश्रेष्ठो हर्षेण प्रकृतिं गतः ॥ 3-39-66(17324)
पपात पादयोस्तस्य ततः प्रीतोऽभवद्भवः।
[उवाच चैनं वचसा मेघगम्भीरगीर्हसः।
जातविस्मयमालोक्य ततः क्षीणाङ्गसंहतिम् ॥ 3-39-67(17325)
भव उवाच। 3-39-68x(1874)
भोभो फल्गुन तुष्टोस्मि कर्मणाऽप्रतिमेन ते।
शौर्येणानेन धृत्या च क्षत्रियो नास्ति ते समः ॥ 3-39-68(17326)
समं तेजश्च वीर्यं च ममाद्य तव चानघ।
प्रीतस्तेऽहं महाबाहो पश्य मां भरतर्षभ ॥ 3-39-69(17327)
ददामि ते विशालाक्ष चक्षुः पूर्वं मुनिर्भवान्।
विजेष्यसि रणे शत्रूनपि सर्वान्दिवौकसः ॥ 3-39-70(17328)
[प्रीत्या च तेऽहं दास्यामि यदस्त्रमनिवारितम्।
त्वं हि शक्तो मदीयं तदस्त्रं धारयितुं क्षणात् ॥] 3-39-71(17329)
वैशम्पायन उवाच। 3-39-72x(1875)
ततो देवं महादेवं गिरिशं शूनपाणिनम्।
ददर्श फल्गुनस्तत्र सह देव्या महाद्युतिम् ॥ 3-39-72(17330)
स जानुभ्यां महीं गत्वा शिरसा प्रणिपत्य च।
प्रसादयामास हरं पार्थः परपुरंजयः ॥ 3-39-73(17331)
अर्जुन उवाच। 3-39-74x(1876)
कपर्दिन्सर्वभूतेश भगनेत्रनिपातन।
[देवदेव महादेव नीलग्रीव जटाधर ॥ 3-39-74(17332)
कारणानां च परमं जाने त्वां त्र्यम्बकं विभुम्।
देवानां च गतिं देवं त्वत्प्रसूतमिदं जगत् ॥ 3-39-75(17333)
अजेयस्त्वं त्रिभिर्लोकैः सदेवासुरमानुषैः।
शिवाय विष्णुरूपाय विष्णवे शिवरूपिणे ॥ 3-39-76(17334)
दक्षियज्ञविनाशाय हरिरूपाय ते नमः।
ललाटाक्षाय शर्वाय मीढुषे शूलपाणये ॥ 3-39-77(17335)
पिनाकगोप्त्रे सूर्याय मङ्गल्याय च वेधसे।
प्रसादये त्वां भगवन्सर्वभूतमहेश्वर ॥ 3-39-78(17336)
गणेशं जगतः शम्भुं लोककारणकारणम्।
प्रधानपुरुषातीतं परं सूक्ष्मतरं हरम् ॥ 3-39-79(17337)
व्यतिक्रमं मे भगवन्क्षन्तुमर्हसि शंकर।
भगवन्दर्शनाकाङ्क्षी प्राप्तोस्मीमं महागिरिम् ॥ 3-39-80(17338)
दयितं तव देवेश तापसालयमुत्तमम्।
प्रसादये त्वां भगवन्सर्वलोकनमस्कृतम् ॥ 3-39-81(17339)
कृतो मयाऽयमज्ञानाद्विमर्दो यस्त्वया सह।
शरणं प्रतिपन्नाय तत्क्षमस्वाद्य शंकर ॥ 3-39-82(17340)
वैशम्पायन उवाच। 3-39-83x(1877)
तमुवाच महातेजाः प्रहसन्वृषभध्वजः।
प्रगृह्य रुचिरं बाहुं क्षान्तमित्येव फल्गुनम् ॥ 3-39-83(17341)
परिष्वज्य च बाहुभ्यां प्रीतात्मा भगवान्हरः।
पुनः पार्थं सान्त्वपूर्वमुवाच वृषभध्वजः ॥ 3-39-84(17342)
`गङ्गाङ्गितजटः शर्वः पार्थस्यामिततेजसः।
प्रगृह्य रुचिरं बाहुं वृत्तं ताम्रतलाङ्गुलिम् ॥' 3-39-85(17343)
इति श्रीमन्महाभारते अरण्यपर्वणि कैरातपर्वणि एकोनचत्वारिंशोऽध्यायः ॥ 39 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-39-4 भूतैः प्रमथाख्यैः स्वपार्षदैः ॥ 3-39-13 समं एककालम् ॥ 3-39-15 अशनिर्मेधजं वज्रम्। वज्रं इन्द्रप्रहरणम्। संनिषातो योगः ॥ 3-39-16 स दानवः राक्षसमिव ॥ 3-39-20 अभिपन्नः परिगृहीतः कामानत्। यदृच्छातः। परिभवात् ममाभिभवाय ॥ 3-39-23 मत्कृते मन्निमित्तम्। वनमन्तिकाद्वनस्य समीपे ॥ 3-39-24 प्ररोचितः स्वीकृतः ॥ 3-39-30 दोषान्मृगया धर्मातिक्रमरूपान् ॥ 3-39-34 नाराचान् शरजातिभेदान् ॥ 3-39-39 अहोऽयमिति संधिरार्षः ॥ 3-39-41 सहितुं सोढुम् ॥ 3-39-52 असक्तमकुण्ठितम् ॥ 3-39-53 पफाल विशीर्ण 3-39-55 धूमं क्रोधावेशेन ॥ 3-39-61 पीड्य निपीड्य ॥ 3-39-62 गात्रेषु संरुद्धश्चलनहीनः ॥ 3-39-66 प्रकृतिं स्वास्थ्यम् ॥ 3-39-70 चक्षुः दिव्यज्ञानम् ॥ 3-39-77 मीढुषे वर्षकाय ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|